जय जय हे भगवति सुरभारति
या देवी सर्वभूतेषु कलारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ जय जय हे भगवति सुरभारति तव चरणौ प्रणमामः नादब्रह्ममयि जय वागीश्वरि शरणं ते गच्छामः ॥ त्वमसि शरण्या त्रिभुवनधन्या सुर-मुनि-वन्दित-चरणा नवरसमधुरा कवितामुखरा स्मित-रुचि-रुचिराभरणा ॥ आसीना भव मानसहंसे कुन्द-तुहिन-शशि-धवले हर जडतां कुरु बोधिविकासं सित-पङ्कज-तनु-विमले ॥ ललितकलामयि ज्ञानविभामयि वीणा-पुस्तक-धारिणी मतिरास्तां नो तव पदकमले अयि कुण्ठाविषहारिणि